मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् ६

संहिता

अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।
यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥

पदपाठः

अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् ।
यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि । ब॒हुऽओ॑जसः ॥

सायणभाष्यम्

हे मरुतोवोयुष्माकं अमाय बलाय यातवे यातुं द्यौर्द्युलोकः बृहदन्तरिक्षं विसृज्य उत्तरा उद्गततरा जिहीते गच्छति युष्मदागमनाद्धीतासती युष्म- दीयमांतरिक्षं स्थानं परित्यज्यऊर्ध्वं पलायतइत्यर्थः । यत्र यस्मिन्नन्तरिक्षे बाह्वोरोजोबलं येषां तादृशानरोनेतारोमरुतः त्वक्षांसि दीप्तान्याभर- णानि तनुष्वात्मीयेषु शरीरेषु आदेदिशते आदिष्टानि धृतानि कुर्वन्ति । यद्वा तनूषु विस्तृतासु मेघस्थास्वप्सु त्वक्षांसि तनूकृतानि तीक्ष्णीकृतान्या- युधानि मेघोद्धेदनाय आदेदिशते पुनःपुनरादिशन्ति तइहदंतरिक्षं जिहीतइत्यन्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७