मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् ७

संहिता

स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः ।
वह॑न्ते॒ अह्रु॑तप्सवः ॥

पदपाठः

स्व॒धाम् । अनु॑ । श्रिय॑म् । नरः॑ । महि॑ । त्वे॒षाः । अम॑ऽवन्तः । वृष॑ऽप्सवः ।
वह॑न्ते । अह्रु॑तऽप्सवः ॥

सायणभाष्यम्

नरोनेतारोमरुतः स्वधामनु स्वधेत्यन्ननाम हविर्लक्षणमन्नमनुलक्ष्य श्रियं शोभां महि महत्प्रौढं वहन्ते धारयन्ति । कीदृशाः त्वेषाः दीप्ताः अमव- न्तोबलवन्तः वृषप्सवोवर्षणरूपाः अह्रुतप्सवः अकुटिलरूपाश्च ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७