मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् ८

संहिता

गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।
गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ न॒ः स्पर॑से॒ नु ॥

पदपाठः

गोभिः॑ । वा॒णः । अ॒ज्य॒ते॒ । सोभ॑रीणाम् । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ ।
गोऽब॑न्धवः । सु॒ऽजा॒तासः॑ । इ॒षे । भु॒जे । म॒हान्तः॑ । नः॒ । स्पर॑से । नु ॥

सायणभाष्यम्

सोभरीणामृषीणां गोभिः शब्दैः स्तुतिलक्षणैर्वाणः मरुद्वीणाअज्यते व्यज्यते प्रकटीक्रियते । कुत्र हिरण्यये रथे कोशे कोशवद्वेष्टिते मध्यदेशे । यद्वा गोभिर्गंतृभिर्गोमातृकैर्वा मरुद्धिः वाणः अज्यते व्यज्यते सोभरीणां ज्ञानाय ईदृशे रथे वाघतइत्यर्थः । अपिच गोबंधवोगोमातृकाः सुजातासः शोभ- नजन्मानः महांतोमहानुभावास्तेमरुतः नोस्माकं इषेन्नाय भुजे भोगाय स्परसे प्रीत्यैच वलनाय वा नु क्षिप्रं भवंत्विति शेषः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७