मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १०

संहिता

वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।
आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥

पदपाठः

वृ॒ष॒ण॒श्वेन॑ । म॒रु॒तः॒ । वृष॑ऽप्सुना । रथे॑न । वृष॑ऽनाभिना ।
आ । श्ये॒नासः॑ । न । प॒क्षिणः॑ । वृथा॑ । न॒रः॒ । ह॒व्या । नः॒ । वी॒तये॑ । ग॒त॒ ॥

सायणभाष्यम्

हे नरोनेतारोमरुतः वृषणश्वेन वृषभिः सेचनसमर्थैरश्वैरुपेतेन वृषप्सुना वर्षकरूपयुक्तेन वृषनाभिना नाभिश्चक्रछिद्रं वर्षकनाभियुक्तेन रथेन नो- स्माकं हव्या हव्यानि हवींषि आगत आगच्छत । वृथा अनायासेनैव वीतये भक्षणार्थम् । तत्रदृष्टान्तः-श्येनासोन पक्षिणः श्येनाः शंसनीयगतयः पक्षिणोयथा शीघ्रमागच्छंतितद्वदनायासेन सीघ्रमागच्छतेत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७