मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् ११

संहिता

स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।
दवि॑द्युतत्यृ॒ष्टयः॑ ॥

पदपाठः

स॒मा॒नम् । अ॒ञ्जि । ए॒षा॒म् । वि । भ्रा॒ज॒न्ते॒ । रु॒क्मासः॑ । अधि॑ । बा॒हुषु॑ ।
दवि॑द्युतति । ऋ॒ष्टयः॑ ॥

सायणभाष्यम्

एषां मरुतां अञ्जि रूपाभिव्यंजकं आभरणं समानमेकविधमेव एतदेवाह रुक्मासोरुक्मादीप्यमानाः सुवर्णमयाहाराः विभ्राजंते वक्षःस्थलेषुविशे- षेण दीप्यंते तथा बाहुष्वधि अंसेषु ऋष्टयः शक्त्यादीन्यायुधानि दविद्युतति अत्यर्थं द्योतंते ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८