मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १२

संहिता

त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।
स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रियः॑ ॥

पदपाठः

ते । उ॒ग्रासः॑ । वृष॑णः । उ॒ग्रऽबा॑हवः । नकिः॑ । त॒नूषु॑ । ये॒ति॒रे॒ ।
स्थि॒रा । धन्वा॑नि । आयु॑धा । रथे॑षु । वः॒ । अनी॑केषु । अधि॑ । श्रियः॑ ॥

सायणभाष्यम्

उग्रासउद्रूर्णाः सर्वकार्येषूद्यताः वृषणोवर्षितारः उग्रबाहवः उद्रूर्णबाहुकास्ते मरुतः तनूष्वात्मीयेषु शरीरेषु नकिर्येतिरे रक्षणाय नप्रयतन्ते । नहि कश्चित्तेषां शरीराणि बाधितुं श्क्रोति येन यत्नः क्रियेत । परोर्धर्चः प्रत्यक्षकृतः हे मरुतः वोयुष्माकं रथेषु धन्वानि धनूंषि आयुधान्यायोधनानि बा- णादीनिच स्थिरा स्थिराणि दृढतराणि सन्ति अतएव कारणात् अनीकेष्वधि सेनामुखेषु श्रियः जयसंपदोयुष्माकं भवन्ति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८