मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १३

संहिता

येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।
वयो॒ न पित्र्यं॒ सहः॑ ॥

पदपाठः

येषा॑म् । अर्णः॑ । न । स॒ऽप्रथः॑ । नाम॑ । त्वे॒षम् । शश्व॑ताम् । एक॑म् । इत् । भु॒जे ।
वयः॑ । न । पित्र्य॑म् । सहः॑ ॥

सायणभाष्यम्

अर्णोन उदकमिव सप्रथः सर्वतः पृथु विस्तीर्णं त्वेषं दीप्तं शश्वतां बहूनां एषां मरुतामीदृशं नाम मरुतइतिनामधेयं एकंइत् एकं एवासहायमेव सत् भुजे स्तोतृणां भोगाय भवति । तत्र दृष्टान्तः-सहः प्रसहनशीलं पित्र्यं पितुरागतं वयोन अन्नमिव यथा तद्विस्रंभेण भोगाय भवति तथेत्यर्थः तानि- त्युत्तरत्रैकवाक्यता ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८