मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १४

संहिता

तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् ।
अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥

पदपाठः

तान् । व॒न्द॒स्व॒ । म॒रुतः॑ । तान् । उप॑ । स्तु॒हि॒ । तेषा॑म् । हि । धुनी॑नाम् ।
अ॒राणा॑म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥

सायणभाष्यम्

हे अन्तरात्मन् तान्पूर्वोक्तगुणान् मरुतः वन्दस्व प्रणतानेवोपेत्य स्तुहि । हि यस्मात् धुनीनां कंपयितृणां तेषां मरुतां वयं शेषभूताः स्म अराणां न अर्याणां स्वामिनां यथा चरमः हीनः सेवकः शेषभूतः तद्वत् । तत्तस्मादेषां मरुतां दाना दानानि मह्ना महत्त्वेन युक्तानि अस्माकं भवन्ति तदेषामितिद्विरुक्तिरादरार्था पदपूरणार्था वा ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८