मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १५

संहिता

सु॒भग॒ः स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।
यो वा॑ नू॒नमु॒तास॑ति ॥

पदपाठः

सु॒ऽभगः॑ । सः । वः॒ । ऊ॒तिषु॑ । आस॑ । पूर्वा॑सु । म॒रु॒तः॒ । विऽउ॑ष्टिषु ।
यः । वा॒ । नू॒नम् । उ॒त । अस॑ति ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकं ऊतिषु रक्षासु सतीषु सस्तोता सुभगआस शोभनधनोभवति अस्तेश्छान्दसोभूभावाभावः । यद्वा सुभगःआस दीप्यते । असग- तिदीप्त्यादानेषु । कदेति चेदुच्यते-पूर्वासुव्युष्टिषुपूर्वेषु अतीतेषु विवासितेषु दिवसेषु । यद्वा पूर्वासु आगामिनीषु व्युष्टिषु उषःसु उषःकालोपलक्षिते- षु दिवसेषु । उतापिच योमनुष्यः स्तोता यष्टावा नूनमवश्यं असति युष्माकं भवति अस्तेश्छान्दसःशपोलुगभावः ससुभगइत्यन्वयः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८