मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १६

संहिता

यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।
अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥

पदपाठः

यस्य॑ । वा॒ । यू॒यम् । प्रति॑ । वा॒जिनः॑ । न॒रः॒ । आ । ह॒व्या । वी॒तये॑ । ग॒थ ।
अ॒भि । सः । द्यु॒म्नैः । उ॒त । वाज॑सातिऽभिः । सु॒म्ना । वः॒ । धू॒त॒यः॒ । न॒श॒त् ॥

सायणभाष्यम्

हे नरोनेतारोमरुतोयूयं यस्यवा यस्यच वाजिनोहविष्मतोयजमानस्य हव्या हव्यानि हवींषि प्रतिवीतये भक्षणाय आगथ आगच्छथ । सयजमा- नः हे धूतयः कंपयितारोमरुतः द्युम्नैर्धोतमानैरन्नैर्यशोभिर्वा उतापिच वाजसातिभिः वाजानां संभजनैश्च वोयुष्माकं संबंधीनि सुम्ना सुम्नानि सुखा- नि अभिनशत् अभितोव्याप्नोति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९