मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १७

संहिता

यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धसः॑ ।
युवा॑न॒स्तथेद॑सत् ॥

पदपाठः

यथा॑ । रु॒द्रस्य॑ । सू॒नवः॑ । दि॒वः । वश॑न्ति । असु॑रस्य । वे॒धसः॑ ।
युवा॑नः । तथा॑ । इत् । अ॒स॒त् ॥

सायणभाष्यम्

रुद्रस्य दुःखद्रावयितुरीश्वरस्य सूनवः पुत्राः असुरस्य उदकानां क्षेप्तुर्मेघस्य वेधसोविधातारः यद्वा असवः प्राणाः तान् रातिददातीत्यसुरं वृष्टिजलं तस्य कर्तारः युवानोनित्यतरुणाईदृशामरुतः दिवोन्तरिक्षादागत्य यथा येनप्रकारेण वशन्ति अस्मान्कामयन्ते तथेत् तथैव तेन प्रकारेण असत् इदं स्तोत्रं भवतु । वष्टेः छान्दसः शपोलुगभावः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९