ये चार्ह॑न्ति म॒रुतः॑ सु॒दान॑व॒ः स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये ।
अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥
ये । च॒ । अर्ह॑न्ति । म॒रुतः॑ । सु॒ऽदान॑वः । स्मत् । मी॒ळ्हुषः॑ । चर॑न्ति । ये ।
अतः॑ । चि॒त् । आ । नः॒ । उप॑ । वस्य॑सा । हृ॒दा । युवा॑नः । आ । व॒वृ॒ध्व॒म् ॥
सुदानवः शोभनदानाः येच यजमानाः मरुतोदेवानर्हन्ति पूजयन्ति येच मीह्ळुषः सेक्तृन् मरुतः स्मत् प्रशस्तं चरंति हविर्भिः प्रचरन्ति यजन्ति । यतएवं अतश्चित् अतोपिकारणात्तानुभयविधान्नोस्मान् आ अभिलक्ष्य वस्यसा वसीयसा वसुमत्तमेन हृदा हृदयेन हे युवानोमरुतः उपाववृध्वम् उपेत्याभिसंभजत ॥ १८ ॥