मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १९

संहिता

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑ः पाव॒काँ अ॒भि सो॑भरे गि॒रा ।
गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥

पदपाठः

यूनः॑ । ऊं॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा ।
गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥

सायणभाष्यम्

हे सोभरे यूनोनित्यतरुणान् वृष्णोवर्षिष्ठान्पावकान् तान्मरुतः नविष्ठया अतिशयेनाभिनवया गिरा वाचा स्तुतिरूपया सु शोभनं अभिगाय अभि- ष्टुहि । चर्कृषत् पुनःपुनः कृषन् कृषीवलोगाइव सयथा युनः शक्ताननडुहः स्तौति तद्वत् ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९