मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् २०

संहिता

सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।
वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥

पदपाठः

स॒हाः । ये । सन्ति॑ । मु॒ष्टि॒हाऽइ॑व । हव्यः॑ । विश्वा॑सु । पृ॒त्ऽसु । होतृ॑षु ।
वृष्णः॑ । च॒न्द्रान् । न । सु॒श्रवः॑ऽतमान् । गि॒रा । वन्द॑स्व । म॒रुतः॑ । अह॑ ॥

सायणभाष्यम्

विश्वासु सर्वासु पृत्सु पृतनासु युद्धेषु होतृषु आह्वानशीलेषु योद्धृषु च ये मरुतः सहाः सन्ति अभिभवितारोभवन्ति हव्योह्वातव्योमुष्टिहेव मुष्टि- भिः एव हन्तीति मुष्टिहा मल्लः सइव नेतिसम्प्रत्यर्थे न सम्प्रति वृष्णोवर्षितृन् चन्द्रानाह्लादकान् सुश्रवस्तमान् अतिशयेन शोभनयशस्कान् ता- न्मरुतःअह मरुतएव गिरा वाचा वन्दस्व स्तुहि ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९