मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् २१

संहिता

गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुत॒ः सब॑न्धवः ।
रि॒ह॒ते क॒कुभो॑ मि॒थः ॥

पदपाठः

गावः॑ । चि॒त् । घ॒ । स॒ऽम॒न्य॒वः॒ । स॒ऽजा॒त्ये॑न । म॒रु॒तः॒ । सऽब॑न्धवः ।
रि॒ह॒ते । क॒कुभः॑ । मि॒थः ॥

सायणभाष्यम्

हे समन्यवः समानतेजस्काः समानक्रोधावा हे मरुतः गावश्चित् गावश्च युष्मन्मातृभूताः सांगत्येन समानजातित्वेन सबंधवः समानबंधुकाः सत्यः ककुभोदिशः प्राच्यादिदिग्भागान् प्राप्य मिथः परस्परं रिहते लिहन्ति घेतिपूरकः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०