मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् २२

संहिता

मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।
अधि॑ नो गात मरुत॒ः सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥

पदपाठः

मर्तः॑ । चि॒त् । वः॒ । नृ॒त॒वः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । उप॑ । भ्रा॒तृ॒ऽत्वम् । आ । अ॒य॒ति॒ ।
अधि॑ । नः॒ । गा॒त॒ । म॒रु॒तः॒ । सदा॑ । हि । वः॒ । आ॒पि॒ऽत्वम् । अस्ति॑ । निऽध्रु॑वि ॥

सायणभाष्यम्

हे नृतवोनृत्यंतः हे रुक्मवक्षसः रोचमानाभरणं रुक्मं वक्षसि येषां ते तथोक्ताः ईदृशा हे मरुतः मर्तश्चित् मनुष्योपि स्तोता वोयुष्माकं भ्रातृत्वं स- खित्वं आभिमुख्येन उपायत्युपगच्छति अतोनोस्मान् मनुष्यानूस्तोतृन् अधिगात अधिब्रूत अस्मत्पक्षपातवचनाभवत । हि यस्मात् वोयुष्माकंआपि- त्वं बन्धुत्वं निध्रुवि नितरां धारयितव्ये स्तोत्रे यज्ञेवा सदा सर्वदा अस्ति विद्यते तस्मादित्यर्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०