मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् २३

संहिता

मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।
यू॒यं स॑खायः सप्तयः ॥

पदपाठः

मरु॑तः । मारु॑तस्य । नः॒ । आ । भे॒ष॒जस्य॑ । व॒ह॒त॒ । सु॒ऽदा॒न॒वः॒ ।
यू॒यम् । स॒खा॒यः॒ । स॒प्त॒यः॒ ॥

सायणभाष्यम्

हे सुदानवः शोभनदानाः हे सखायः समानख्यानाः हे सप्तयः सर्पणशीलामरुतः नोस्माकं मारुतस्यभेषजस्य मरुत्संवंधि भेषजं औषधं यूयं आव- हत आनयत ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०