मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् २४

संहिता

याभि॒ः सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् ।
मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥

पदपाठः

याभिः॑ । सिन्धु॑म् । अव॑थ । याभिः॑ । तूर्व॑थ । याभिः॑ । द॒श॒स्यथ॑ । क्रिवि॑म् ।
मयः॑ । नः॒ । भू॒त॒ । ऊ॒तिऽभिः॑ । म॒यः॒ऽभु॒वः॒ । शि॒वाभिः॑ । अ॒स॒च॒ऽद्वि॒षः॒ ॥

सायणभाष्यम्

हे मरुतः याभिरूतिभिः सिन्धुं समुद्रमवथ रक्षथ याभिश्च तूर्वथ स्तोतृणां शत्रून् हिंस्थ तुर्वी हिंसार्थः याभिश्च क्रिविं कूपं तृष्णजे गोतमाय दश- स्यथ प्रयच्छथ हे मयोभुवः मयसःसुखस्य भावयितारः असचद्विषः अशक्तशत्रवः शत्रुरहिताः शिवाभिःकल्याणीभिः स्तोत्राभिः सर्वाभिरूतिभीर- क्षाभिः नोस्माकं मयः सुखं भूत भावयत उत्पादयत । यद्वा भ् प्राप्तौ प्रापयत ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०