मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् २५

संहिता

यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।
यत्पर्व॑तेषु भेष॒जम् ॥

पदपाठः

यत् । सिन्धौ॑ । यत् । असि॑क्न्याम् । यत् । स॒मु॒द्रेषु॑ । म॒रु॒तः॒ । सु॒ऽब॒र्हि॒षः॒ ।
यत् । पर्व॑तेषु । भे॒ष॒जम् ॥

सायणभाष्यम्

हे सुबर्हिषः शोभनयज्ञामरुतः सिंधौ एतत्संज्ञे स्पंदनशीले नदे यद्धेषजं अस्ति यञ्जासिक्न्यां यञ्ज पर्वतेषु भेषजं विद्यते तत्सर्वं भेषजं पश्यन्तइति उत्तरयैकवाक्यता ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०