मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् २६

संहिता

विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।
क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥

पदपाठः

विश्व॑म् । पश्य॑न्तः । बि॒भृ॒थ । त॒नूषु॑ । आ । तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।
क्ष॒मा । रपः॑ । म॒रु॒तः॒ । आतु॑रस्य । नः॒ । इष्क॑र्त । विऽह्रु॑तम् । पुन॒रिति॑ ॥

सायणभाष्यम्

विश्वं सर्वं पूर्वोक्तं भेषजं पश्यंतोजानन्तोयूयं तनूष्टु अस्मदीयेषु विषयेषु आबिभृथ आहरथ आहृतेनच नोस्मानधिवोचत अधिब्रूत चिकित्सतेत्य- र्थः । अपिच हे मरुतः नोस्माकं मध्ये आतुरस्य रोगिणः रपः पापनामैतत् रपसः पापफलस्य रोगस्य क्षमा क्षान्तिर्यथा भवति तथा विह्रुतं विबा- धितं अंगं पुनरिष्कर्त निःशेषेण संपूर्णं कुरुत । निसोनलोपश्छान्दसः । करोतेर्लोटि छान्दसोविकरणस्यलुक् तप्तनप्तनथनाश्चेति तशब्दस्य तबादेशः अतएव उपसर्गसमुदायोनावगृत्द्यते ॥ २६ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येणविरचिते माधवीये वेदार्थप्रकाशे ऋक्सं- हिताभाष्ये षष्ठाष्टके प्रथमोध्यायः समाप्तः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०