मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् २

संहिता

उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् ।
त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥

पदपाठः

उप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । सः । नः॒ । युवा॑ । उ॒ग्रः । च॒क्रा॒म॒ । यः । धृ॒षत् ।
त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वृ॒महे॑ । सखा॑यः । इ॒न्द्र॒ । सा॒न॒सिम् ॥

सायणभाष्यम्

प्रथमपादः प्रत्यक्षकृतः । हे इन्द्र कर्मन् अग्निष्टोमादि कर्माणि ऊतये रक्षणाय त्वा त्वां उपगच्छामः । द्वितीयपादः परोक्षकृतः । यइन्द्रः धृषत् धृ- ष्णोति शत्रूनभिभवति त्रिधृषाप्रागल्भ्ये बहुलंछन्दसीति शप्प्रत्ययः । युवा तरुण् उग्रउद्रूर्णः सइन्द्रः नोस्मान् प्रतिचक्राम आगच्छतु । यद्वा चक्राम अस्मानुत्साहयुक्तान् करोतु क्रमतेः सर्गार्थे व्यत्ययेन प्रस्मैपदम् । परोर्धर्चः प्रत्यक्षकृतः । सखायः समानख्यानाः बंधुभूतावा वयं सानसिं वनषण संभक्तौ संभजनीयं अवितारं सर्वस्य रक्षितारं त्वामित् त्वामेव ववृमहे वृणीमहे संभजामहे । हिः प्रसिद्धौ हियोगादनिघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः