मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् ३

संहिता

आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।
सोमं॑ सोमपते पिब ॥

पदपाठः

आ । या॒हि॒ । इ॒मे । इन्द॑वः । अश्व॑ऽपते । गोऽप॑ते । उर्व॑राऽपते ।
सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ॥

सायणभाष्यम्

अश्वपते अश्वानां स्वामिन् गोपते गवां पालयितः उर्वरापते सर्वसस्याढचाभूमिरुर्वरा तस्याः पते हे इन्द्र इन्द्रवः सोमाः इमे भवदीयाः त्वदर्थमभि- षुताइत्यर्थः तस्मादायाहि आगच्छ आगत्य सोमपते हे इंद्र सोमं पिब ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः