मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् ४

संहिता

व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म ।
या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भि॒ः सोम॑पीतये ॥

पदपाठः

व॒यम् । हि । त्वा॒ । बन्धु॑ऽमन्तम् । अ॒ब॒न्धवः॑ । विप्रा॑सः । इ॒न्द्र॒ । ये॒मि॒म ।
या । ते॒ । धामा॑नि । वृ॒ष॒भ॒ । तेभिः॑ । आ । ग॒हि॒ । विश्वे॑भिः । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे इन्द्र अबंधवः बन्धुरहिताः विप्रासः मेधाविनोवयं बन्धुमन्तं बन्धुभिर्देवैरंगिरोभिर्वा तद्वंतं त्वा त्वां हिरवधारणे त्वामेव येमिम बन्धुत्वेन निय- च्छाम यच्छतेर्लिटिरूपम् । तथा सति हे वृषभ कामानां वर्षितरिन्द्र ते तव या यानि धामानि शरीराणि वेजांसि वा विद्यन्ते तेभिस्तैर्विश्वेभिः स- र्वैर्धामभिः सह सोमपीतये सोमपानार्थमागहि आगच्छ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः