मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् ५

संहिता

सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे ।
अ॒भि त्वामि॑न्द्र नोनुमः ॥

पदपाठः

सीद॑न्तः । ते॒ । वयः॑ । य॒था॒ । गोऽश्री॑ते । मधौ॑ । म॒दि॒रे । वि॒वक्ष॑णे ।
अ॒भि । त्वाम् । इ॒न्द्र॒ । नो॒नु॒मः॒ ॥

सायणभाष्यम्

हे इन्द्र गोश्रीते श्रीङ् पाके गोविकारे दधिपयसी गोशब्देनोच्येते दध्ना पयसाच श्रीतेन श्रयणद्रव्येण मिश्रिते मदिरे मदकरे विवक्षणे स्वर्गप्रापणशी- ले ते त्वदीये मधौ सोमे सीदन्तोनिवसन्तः । सदने दृष्टान्तः-वयोयथा पक्षिणोयथौकत्रसंघीभूय तिष्ठन्ति तद्वात् सीदंतोवयं स्वामभि आभिमुख्येन नोनुमः पुनःपुनर्भृशंवा स्तुमः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः