मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् ७

संहिता

नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः ।
वि॒द्मा पु॒रा परी॑णसः ॥

पदपाठः

नूत्नाः॑ । इत् । इ॒न्द्र॒ । ते॒ । व॒यम् । ऊ॒ती । अ॒भू॒म॒ । न॒हि । नु । ते॒ । अ॒द्रि॒ऽवः॒ ।
वि॒द्म । पु॒रा । परी॑णसः ॥

सायणभाष्यम्

हे इन्द्र ते तव उती उत्यै रक्षणे वयं नूत्नाइत् नूतनाएव अभूम भवामः । अद्रिवः वज्रिन् हे इन्द्र पुरा पूर्वं त्वां परीणसः सुबूव्यत्ययः परीणसं परितो- व्याप्तं महांतं वेति नहिविद्म नजानीमः । नु सम्प्रति ते त्वां महान्तमिति जानन्तोवयं भवता रक्ष्याइति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः