मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् ८

संहिता

वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे ।
उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥

पदपाठः

वि॒द्म । स॒खि॒ऽत्वम् । उ॒त । शू॒र॒ । भो॒ज्य॑म् । आ । ते॒ । ता । व॒ज्रि॒न् । ई॒म॒हे॒ ।
उ॒तो इति॑ । स॒म॒स्मि॒न् । आ । शि॒शी॒हि॒ । नः॒ । व॒सो॒ इति॑ । वाजे॑ । सु॒ऽशि॒प्र॒ । गोऽम॑ति ॥

सायणभाष्यम्

शूर शत्रूणां शातयितर्बलवन् हे इन्द्र सखित्वं तव सखिभावं वयं विद्म जानीमः । उतापिच भोज्यमभ्यवहारार्थं धनंच विझ् । वज्रिन् हे इन्द्र ते त्व- दीये ता ते सख्यधने आ आभिमुख्येन ईमहे वयं याचामहे । उतो अपिच हे वसो सर्वस्यवासयितः सुशिप्र शोभनहनो यद्वा शोभनशिरस्त्राण हे इन्द्र गोमति गवादियुक्तेसमस्मिन् सर्वस्मिन् वाजे अन्ने नोस्मानाशिशीहि तीक्ष्णीकुरु । उपलक्षणं प्रदानेनास्मान्प्रसिद्धान्कुर्वित्यर्थः । शिञू निशाने इत्यस्यछान्दसः स्लुः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः