मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् १०

संहिता

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत ।
आ तु न॒ः स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥

पदपाठः

हरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । सः । हि । स्म॒ । यः । अम॑न्दत ।
आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य॑म् । अश्व्य॑म् । स्तो॒तृऽभ्यः॑ । म॒घऽवा॑ । श॒तम् ॥

सायणभाष्यम्

हर्यश्वं हरितवर्णाश्वोपेतं सत्पतिं स्वप्रकाशाधिक्येन सतां नक्षत्राणां पतिं सतां श्रेष्ठानां पतिंवा चर्षणीसहं चर्षणीनां शत्रुभूतानां मनुष्याणामभिभ- वितारं सहिष्म सखलु जनः स्तौति । योजनः अमन्दत ततोलब्धधनः सन् तृप्तोभवति सएनं तुष्टूषति । एवंसति मघवा धनवान् सइन्द्रः शतं गव्य- मश्व्यमनेकं गवाश्वसंघं स्तोतृभ्योनोस्मभ्यं तु क्षिप्रमावपति आप्रापयतु । वीगत्यांदिषु अस्माल्लेट्यडागमः ततोलब्धगवादिकावयं चैनं स्तुमइति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः