मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् ११

संहिता

त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि ।
सं॒स्थे जन॑स्य॒ गोम॑तः ॥

पदपाठः

त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । प्रति॑ । श्व॒सन्त॑म् । वृ॒ष॒भ॒ । ब्रु॒वी॒म॒हि॒ ।
स॒म्ऽस्थे । जन॑स्य । गोऽम॑तः ॥

सायणभाष्यम्

वृषभ वर्षितः हे इन्द्र गोमतोगवादियुक्तस्य जनस्य संस्थे स्थाने युद्धे श्वसन्तं अस्मान् प्रति क्रोधातिशयेन श्वासकारिणं शत्रुं युजा सहायेन त्वया ह स्वित् त्वयैव खलु वयं प्रतिब्रुवीमहि प्रतिवचनं कुर्मः निराकरिष्यामैअत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः