मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् १२

संहिता

जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्य॑ः ।
नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिन्द्र॒ प्र णो॒ धियः॑ ॥

पदपाठः

जये॑म । का॒रे । पु॒रु॒ऽहू॒त॒ । का॒रिणः॑ । अ॒भि । ति॒ष्ठे॒म॒ । दुः॒ऽध्यः॑ ।
नृऽभिः॑ । वृ॒त्रम् । ह॒न्याम॑ । शू॒शु॒याम॑ । च॒ । अवेः॑ । इ॒न्द्र॒ । प्र । नः॒ । धियः॑ ॥

सायणभाष्यम्

पुरुहूत पुरुभिर्बहुभिराह्वातव्य हे इन्द्र अस्माकं विविधाः शत्रवः उपद्रवकारिणः बाधां मनसा स्मरंतश्चेति । तत्र कारिणः हिंसां कुर्वन्तः शत्रून् कारे कीर्यंते आयुधान्यत्रेति कारोयुद्धं तस्मिन् तान्वयं जयेम । दूढचः दुर्धियः पापबुद्धीनपि अभि तिष्ठेम अभितः स्थास्यामः । किंच वृत्रं गवामारवकं शत्रूं नृभिः आयुधनेतृभिर्मरुद्धिः सह हन्याम हिंस्याम हत्वा शूशुयामच शत्रुराहित्येन पुत्रपौत्रैरग्निष्टोमादिकर्मभिश्च वर्धयेमहि । यद्वा श्वयतिरत्रान्तर्णीतण्यर्थः शत्रुभ्योबाधाभावात् सोमलक्षणैरन्नैस्त्वां वर्धयेम ततस्त्वंनोस्माकं धियः कर्माणि प्रविः प्रकर्षेण रक्ष ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः