मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् १४

संहिता

नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्व॑ः ।
य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥

पदपाठः

नकिः॑ । रे॒वन्त॑म् । स॒ख्याय॑ । वि॒न्द॒से॒ । पीय॑न्ति । ते॒ । सु॒रा॒श्वः॑ ।
य॒दा । कृ॒णोषि॑ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ताऽइ॑व । हू॒य॒से॒ ॥

सायणभाष्यम्

हे इन्द्र रेवन्तं धनवन्तं केवलधनवन्तं दानादिरहितमयष्टारमाढचं मानवं सख्याय सखिभावाय नकिर्विंदसे नभजसे नाश्रयसीत्यर्थः । अयष्टारोज- नाः किं सन्तीत्यताअह- सूराश्वः टुओश्विगतिवृध्योः सुरया वृद्धाः तद्वत् प्रमत्ताः नास्तिकाः ते त्वां पीयंति पीयतिर्हिंसाकर्मा हिंसन्ति तान्नाश्रयसी- त्यर्थः । यदा त्वं नदनुं नदअव्यक्ते शब्दे यं स्तोतारं कृणोषि मदीयोयमिति यदा भावयसि तदानीं समूहयसि धनादिकं तस्मै वहसि । आदित् अन- न्तरमेव तेन लब्धधनेन स्तोत्रा पितेव पालयिता जनकइव हूयसे स्तुतिभिराहूयसे स्तूयसइत्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः