मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् २

संहिता

पू॒र्वा॒युषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ।
स॒च॒नाव॑न्तं सुम॒तिभि॑ः सोभरे॒ विद्वे॑षसमने॒हस॑म् ॥

पदपाठः

पू॒र्व॒ऽआ॒युष॑म् । सु॒ऽहव॑म् । पु॒रु॒ऽस्पृह॑म् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ।
स॒च॒नाऽव॑न्तम् । सु॒म॒तिऽभिः॑ । सो॒भ॒रे॒ । विऽद्वे॑षसम् । अ॒ने॒हस॑म् ॥

सायणभाष्यम्

हे सोभरे सुमतिभिः कल्याणीभिः स्तुतिभिः अश्विनोरथं स्तुहि । किं विशिष्टं पूर्वापुषं पूर्वेषां स्तोतृणां धनादिदानेन पोषकं सुहवं युद्धेषु शोभना- ह्वानं पुरुस्पृहं बहुभिः स्पृहणीयं भुज्युं भुजपालने सर्वस्यरक्षकं वाजेषु पूर्व्यं संग्रामेष्वग्रतोगंतारं सचनावन्तं सर्वैर्भजनवन्तं विद्वेषसं शत्रूणां विशे- षेणद्वेष्टारं अनेहसं कैश्चिदप्यनुपद्रवं पागरहितं वा रथं स्तुहीत्यन्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः