इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ ।
अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥
इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । दे॒वा । नमः॑ऽभिः । अ॒श्विना॑ ।
अ॒र्वा॒ची॒ना । सु । अव॑से । क॒रा॒म॒हे॒ । गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥
पुरुभूतमा अतिशयेन बहूनां शत्रूणां भावयितारौ देवा देवौ द्योतनशीलौ स्तोतव्यौ वा दाशुषः हविर्दत्तवतोयजमानस्य गृहं प्रति गंतारा गमनशी- लौ त्या तौ अश्विना अश्विनौ युवां इहास्मिन्कर्मणि अवसे रक्षणाय नमोभिर्हविर्भिःस्तोत्रैर्वा अर्वाचीना अर्वाचीनौ अभिमुखमागच्छन्तौ सुकरामहे वयं सुष्टु कुर्मः ॥ ३ ॥