मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् ४

संहिता

यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति ।
अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥

पदपाठः

यु॒वोः । रथ॑स्य । परि॑ । च॒क्रम् । ई॒य॒ते॒ । ई॒र्मा । अ॒न्यत् । वा॒म् । इ॒ष॒ण्य॒ति॒ ।
अ॒स्मान् । अच्छ॑ । सु॒ऽम॒तिः । वा॒म् । शु॒भः॒ । प॒ती॒ इति॑ । आ । धे॒नुःऽइ॑व । धा॒व॒तु॒ ॥

सायणभाष्यम्

हे अश्विनौ युवोः युवयोरथस्यैकंचक्रं परितोद्यां ईयते गच्छति अन्यकवस्थितं रथस्य चक्रमीर्मा ईर्मौ सर्वस्यान्तर्यामितया प्रेरकौ यद्वा उदकस्य प्रेर- यितारौ वां युवामिषण्यति गच्छति । उक्तार्थेमत्रांतरं-न्य१घ्न्यस्वमूर्धनीति । हे शुभस्पती उदकस्य पालयितारौ हे अश्विनौ वां युवयोः सुमतिः कल्याणीमतिरच्छाभिमुख्येन अस्मानाधावतु आगच्छतु । तत्रदृष्टान्तःधेनुरिव यथानवप्रसूतागौर्वत्सं प्रति पयोदानार्थमागच्छति तद्वद्युवयोः सुम- तिरस्मान्प्रति धनादिप्रदानार्थमागच्छतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः