मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् ५

संहिता

रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना ।
परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥

पदपाठः

रथः॑ । यः । वा॒म् । त्रि॒ऽव॒न्धु॒रः । हिर॑ण्यऽअभीशुः । अ॒श्वि॒ना॒ ।
परि॑ । द्यावा॑पृथि॒वी इति॑ । भूष॑ति । श्रु॒तः । तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विना अश्विनौ त्रिवंधुरः वंधुरं सारथिस्थानं त्रिप्रकारवंधुरोपेतः यद्वा द्वे ईषे तन्मध्ये रज्जुसज्जनार्थकोदंडः एतेत्रयोवंधुरशब्देनोच्यन्ते त्रिवंधुर- युक्तः हिरण्याभीशुः हिरण्मयाश्वादिरज्जुः वां युवयोर्योरथः श्रुतः सर्वत्रप्रसिद्धः सन् द्यावापृथिवी द्यावापृथिव्यौ परिभूषति स्वबलेन परिभवति भ- वतेर्लेटि सिप्यडागमः । यद्वा परितः स्वप्रकाशेनालंकरोति हे नासत्या नासत्यौ तेन पूर्वोक्तेन रथेनागतम् आगच्छतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः