मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् ७

संहिता

उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभि॑ः ।
येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥

पदपाठः

उप॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । या॒तम् । ऋ॒तस्य॑ । प॒थिऽभिः॑ ।
येभिः॑ । तृ॒क्षिम् । वृ॒ष॒णा॒ । त्रा॒स॒द॒स्य॒वम् । म॒हे । क्ष॒त्राय॑ । जिन्व॑थः ॥

सायणभाष्यम्

हे वाजिनीवसू अन्नमेवधनं ययोस्तौ अश्विनौ ऋतस्य सत्यभूतस्य यज्ञस्य पथिभिर्मार्गैर्नोस्मानुपयातं आगच्छतं वृषणा वृषणौ धनानां सेक्तारौ हे अश्विनौ त्रासदस्यवं त्रसदस्योः पुत्रं तृक्षिमेतन्नामकं येभिर्यैर्यज्ञमार्गैर्महे महते क्षत्राय धनाय जिन्वथः प्रीणयथः एवं तैर्मार्गैरस्मान् धनादिभिः प्रीणयितुमागतमित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः