मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् ९

संहिता

आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू ।
यु॒ञ्जाथां॒ पीव॑री॒रिषः॑ ॥

पदपाठः

आ । हि । रु॒हत॑म् । अ॒श्वि॒ना॒ । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
यु॒ञ्जाथा॑म् । पीव॑रीः । इषः॑ ॥

सायणभाष्यम्

वृषण्वसू वर्षणशीलधनौ हे अश्विना अश्विनौ हिरण्यये हिरण्मयरज्जवादियुक्ते कोशे आयुधादीनां कोशस्थाने रमणशीले रथे हिरवधारणे युवामेव आरुहतं आरोहणं कुरुतं ततः पीवरीः पावयितृणि स्थूलानि वा इषोन्नानि युंजाथां अस्मासु योजयतम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः