मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १०

संहिता

याभि॑ः प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम् ।
ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ॥

पदपाठः

याभिः॑ । प॒क्थम् । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । याभिः॑ । ब॒भ्रुम् । विऽजो॑षसम् ।
ताभिः॑ । नः॒ । म॒क्षु । तूय॑म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । भि॒ष॒ज्यत॑म् । यत् । आतु॑रम् ॥

सायणभाष्यम्

हे अश्विनौ याभिरूतिभिः पक्थं एतन्नामकं राजानं अवथः रक्षथः याभिरूतिभिश्च अप्रिगुं अधृतगमनं राजानं अवथःयाभिरूतिभिश्च बभ्रुं राजानंच विजोषसं विशेषेण सोमैःप्रीणयंतं एतान् सर्वान् यैःपालनैरवथः ताभिस्तैरक्षणैः मक्षु क्षिप्रं तूयं तूर्णं नोस्मानागतं रक्षणार्थमागच्छतम् । किंच यत् यत् आतुरं रोगादिसहितं अस्माकं पुत्रादिकं प्रति भिषज्यतंभैषज्यं कुरुतम् भिषक्कंड्वादिः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः