मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् ११

संहिता

यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे ।
व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ॥

पदपाठः

यत् । अध्रि॑ऽगावः । अध्रि॑गू॒ इत्यध्रि॑ऽगू । इ॒दा । चि॒त् । अह्नः॑ । अ॒श्विना॑ । हवा॑महे ।
व॒यम् । गीः॒ऽभिः । वि॒प॒न्यवः॑ ॥

सायणभाष्यम्

अध्रिगावः अधृतधनाः कर्मसु त्वरमाणा विपन्यवोमेधाविनोवयं अध्रिगू अधऋतगमनौ संग्रामे श्त्रुवधार्थं त्वरयागच्छन्तौ अश्विना अश्विनौ युवां अह्रोदिवसस्य इदाचिदिदानीमेव प्रातःकाले गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः यद्यदा हवामहे युवामाह्वयामः तदा ताभिरूतिभिः अस्मानागच्छत- मित्युत्तरत्रसंबन्धः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः