मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १२

संहिता

ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम् ।
इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभि॒ः क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम् ॥

पदपाठः

ताभिः॑ । आ । या॒त॒म् । वृ॒ष॒णा॒ । उप॑ । मे॒ । हव॑म् । वि॒श्वऽप्सु॑म् । वि॒श्वऽवा॑र्यम् ।
इ॒षा । मंहि॑ष्ठा । पु॒रु॒ऽभूत॑मा । न॒रा॒ । याभिः॑ । क्रिवि॑म् । व॒वृ॒धुः । ताभिः॑ । आ । ग॒त॒म् ॥

सायणभाष्यम्

वृषणा वृषणौ वर्षणशीलौ हे अश्विनौ विश्वप्सुं प्सइति रूपनाम स्तोत्रशस्त्रात्मकत्वेन नानारूपं विश्ववार्यं सेर्वैर्देवैर्वरणीयं मे मदीयं हवं युष्मद्विष- यमाह्वानमा अभिमुखीकृत्य ताभिरूतिभिरुपयातं युवामागच्छतम् । याभिः नरा नरौ सर्वस्य नेतारौ अश्विनौ इषा इष इच्छायां हवींषीच्छन्तौ मं- हिष्ठा मंहिष्ठौ अतिशयेन धनानां दातारौ पुरुभूतमा पुरुहूतमौ युद्धेषु अत्यंतं पुरुधा भवन्तौ यद्वा अतिशयेन बहूनां शत्रूणामभिभवितारौ भवन्तौ क्रिविं कूपं प्रतियाभिरूतिभिरुदकानि वावृधुः अवर्धयतः द्वयोर्बहुवचनं पूजार्थं कूपपतितोवंदनमालाभिः कूपं पूरयित्वा युवाभ्यामुत्थापितः खलु । तथामन्त्रः-उद्वन्दनमैरयतंस्वर्दृशइति । ताभिस्तैः पालनैरागतं अस्मद्रक्षणार्थमागच्छतम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः