मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १३

संहिता

तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे ।
ता उ॒ नमो॑भिरीमहे ॥

पदपाठः

तौ । इ॒दा । चि॒त् । अहा॑नाम् । तौ । अ॒श्विना॑ । वन्द॑मानः । उप॑ । ब्रु॒वे॒ ।
तौ । ऊं॒ इति॑ । नमः॑ऽभिः । ई॒म॒हे॒ ॥

सायणभाष्यम्

तौ संग्रामे आयुधानि स्तोतृभ्योधनानिवा विस्तारयन्तौ तौ पूर्वोक्तावश्विनाश्विनौ अहानामह्नामिदाचित् इदानीमेव प्रातःकाले वन्दमानः अभिवादनं कुर्वन् सन् उपब्रुवे तयोः समीपे स्तौमि ततः ता ऊ तावेव नमोभिर्हविर्भिः स्तोत्रैर्वा ईमहे वयं धनादिकं याचामहे ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः