मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १४

संहिता

ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी ।
मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ॥

पदपाठः

तौ । इत् । दो॒षा । तौ । उ॒षसि॑ । शु॒भः । पती॒ इति॑ । ता । याम॑न् । रु॒द्रव॑र्तनी॒ इति॑ रु॒द्रऽव॑र्तनी ।
मा । नः॒ । मर्ता॑य । रि॒पवे॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रः । रु॒द्रौ॒ । अति॑ । ख्य॒त॒म् ॥

सायणभाष्यम्

शुभस्पती उदकस्यपालयितारौ रुद्रवर्तनी युद्धे रोदनशीलमार्गौ स्तूयमानमार्गौवा तावित् तावेवाश्विनौ दोषा दोषायां रात्रौ तावेव उषस्युषःकाले ता तावश्विनौ यामन् यामन्यहनिच सर्वेषु कालेषु वयमश्विनावाह्वयामः एवंसति वाजिनीवसू अन्नधनौ रुद्रौ हे अश्विनौ मर्ताय मनुष्याय रिपवे शत्रवे नोस्मत्परः परस्तान्मातिख्यतं माब्रूतम् शत्रवेस्मान्माकुरुतमित्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः