मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १५

संहिता

आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ ।
हु॒वे पि॒तेव॒ सोभ॑री ॥

पदपाठः

आ । सुग्म्या॑य । सुग्म्य॑म् । प्रा॒तरिति॑ । रथे॑न । अ॒श्विना॑ । वा॒ । स॒क्षणी॒ इति॑ ।
हु॒वे । पि॒ताऽइ॑व । सोभ॑री ॥

सायणभाष्यम्

वा अपिच सक्षणी सेचनीयशीलौ अश्विना अश्विनौ युवां सुग्म्याय सुखार्हाय मत्द्यं सुग्म्यं सुखं प्रातः काले रथेनावहतम् । ततः सोभरिरहं हुवे युवामाह्वयामि । तत्रदृष्टान्तः-पितेव यथा मम पिता जुहाव तद्वदहमाह्वयामि ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः