मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १६

संहिता

मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभि॑ः ।
आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभि॑ः पुरुभोजसा ॥

पदपाठः

मनः॑ऽजवसा । वृ॒ष॒णा॒ । म॒द॒ऽच्यु॒ता॒ । म॒क्षु॒म्ऽग॒माभिः॑ । ऊ॒तिऽभिः॑ ।
आ॒रात्ता॑त् । चि॒त् । भू॒त॒म् । अ॒स्मे इति॑ । अव॑से । पू॒र्वीभिः॑ । पु॒रु॒ऽभो॒ज॒सा॒ ॥

सायणभाष्यम्

हे मनोजवसा मनोवत् शीघ्रं गच्छन्तौ वृषणा वृषणौ धनानां वर्षितारौ मदच्युता माद्यंतीति मदाः शत्रवः तेषांच्यावयितारौ पुरुभोजसा बहूनां भोक्तारौ रक्षकौ यद्वा बहून् स्तोतृन् धनादिभिः भोजयन्तौ हे अश्विनौ मक्षुंगमाभिः शीघ्रं गच्छद्धिः ऊतिभीरक्षाभिः पूर्वीभिर्बहुभिः अस्मे अस्मा- कमवसे रक्षणाय आरात्तातुचित् अन्तिकएव भूतं भवतम् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः