मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १७

संहिता

आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा ।
गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥

पदपाठः

आ । नः॒ । अश्व॑ऽवत् । अ॒श्वि॒ना॒ । व॒र्तिः । या॒सि॒ष्ट॒म् । म॒धु॒ऽपा॒त॒मा॒ । न॒रा॒ ।
गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥

सायणभाष्यम्

मधुपातमा अतिशयेन मधोः सोमस्य पातारौ नरा नेतारौ दस्रा सर्वैर्दर्शनीयौ हे अश्विना अश्विनौ नोस्माकं वर्तिः वर्तते अत्रेति वर्तिर्गृहं तत् अश्वव- दश्वयुक्तं गोमत् गवादियुक्तं हिरण्यवत्सुवर्णकनकादियुक्तं कृत्वा यासिष्टं आगच्छतं यद्वास्मान्प्रति वर्तिर्यज्ञमार्गमश्वादियुक्तं कृत्वा आगच्छतं यातेर्लुङिरूपम् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः