मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १८

संहिता

सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ ।
अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥

पदपाठः

सु॒ऽप्रा॒व॒र्गम् । सु॒ऽवीर्य॑म् । सु॒ष्ठु । वार्य॑म् । अना॑धृष्टम् । र॒क्ष॒स्विना॑ ।
अ॒स्मिन् । आ । वा॒म् । आ॒ऽयाने॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥

सायणभाष्यम्

सुप्रावर्गं शोभनप्रवर्जनं यस्य तत् स्तोतृभ्यः स्वयमेव प्रयच्छतीत्यर्थः तथाविधं सुवीर्यं शोभनवीर्यं सुष्ठु शोभनं यथा भवति तथा वार्यं सर्वैंर्वणीयं रक्षस्विना बलवतापि अनाधृष्टमनभिभवनीयं धनमाधीमहि त्वत्तोवयं धारयामः । तदेवाह-वाजिनीवसू बलयुक्तधनौ अन्नधनौवा अश्विनौ वां युव- योरस्मिन्नायाने अस्मद्गृहंप्रति आगमने विश्वा विश्वानि दिव्यभौमादीनि वामानि धनानि आधीमहि वयं लभामहे धीङ्आधारइत्यस्यलिङि छा- न्दसोविकरणस्य लुक् ॥ १८ ॥

ईळिष्वेति त्रिंशदृचं तृतीयं सूक्तं व्यश्वपुत्रोविश्वमनाः ऋषिः उष्णिक् छन्दः अग्निर्देवता तथाचानुक्रान्तम्-ईळिश्वत्रिंशद्विश्वमनावय्याश्वआग्नेयमौ ष्णिहंहेति । प्रातरनुवाके आग्नेयेक्रतौ औष्णिहेछन्दसि आश्विनशस्त्रे चेदंसूक्तम् । सूत्रितंच-ईळिष्वाहीत्यौष्णिहमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः