मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १

संहिता

ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् ।
च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥

पदपाठः

ईळि॑ष्व । हि । प्र॒ती॒व्य॑म् । यज॑स्व । जा॒तऽवे॑दसम् ।
च॒रि॒ष्णुऽधू॑मम् । अगृ॑भीतऽशोचिषम् ॥

सायणभाष्यम्

प्रतीव्यं शत्रुषु प्रतिगमनशीलमग्निं हिरवधारणे अग्निमेव ईळिष्व स्तुतिभिः स्तोत्रं कुरु । किंच चरिष्णुधूमं सर्वतश्चरणशीलधूमजालं अगृभीतशोचि- षं रक्षोभिरगृत्द्यमाणदीप्तिं जातवेदसं जातप्रज्ञं यद्वा जातानि भूतानि वेत्तीति जातवेदाः तमग्निं यजस्व हविर्भिः पूजय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः