मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २

संहिता

दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा ।
उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥

पदपाठः

दा॒मान॑म् । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒ऽम॒नः॒ । गि॒रा ।
उ॒त । स्तु॒षे॒ । विऽस्प॑र्धसः । रथा॑नाम् ॥

सायणभाष्यम्

उतापिच हे विश्वचर्षणे विश्वस्य सर्वस्यार्थस्य ज्ञानेन द्रष्टः विश्वमनः सर्वेषु स्थावरजंगमात्मकेष्वेकंमनोयस्य सः एतन्नामक हे ऋषे विस्पर्धसोविग- तमात्सर्यस्य यजमानस्य रथानां रथादीनां दामानं दातारमेवंविधमग्निं गिरा स्तुतिलक्षणया वाचा स्तुषे स्तोत्रं कुरु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः