मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ३

संहिता

येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ ।
उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥

पदपाठः

येषा॑म् । आ॒ऽबा॒धः । ऋ॒ग्मियः॑ । इ॒षः । पृ॒क्षः । च॒ । नि॒ऽग्रभे॑ ।
उ॒प॒ऽविदा॑ । वह्निः॑ । वि॒न्द॒ते॒ । वसु॑ ॥

सायणभाष्यम्

आबाधः श्त्रूणामाभिमुख्येन बाधकः ऋग्मियऋग्भिरर्चनीयः अग्निर्येषामयजमानानां इषोन्नानि पृक्षः अन्नादिरसांश्च निग्रभे निगृह्णीते ग्रहेर्लटि छा- न्दसोविकरणस्यलुक् लोपस्तआत्मनेपदेष्वितितलोपः हृग्रहोर्भश्छंदसीतिभकारः । निगृत्द्यच वह्निर्हविषां वोढा सएवाग्निः उपविदा उपवेदनेन ए- ते हवींषि देवार्थं नप्रयच्छन्तीत्येतत् ज्ञानेन तेषामेव वसु धनं विंदते लभते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः