मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ४

संहिता

उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् ।
तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥

पदपाठः

उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः॑ । वि । अ॒जर॑म् ।
तपुः॑ऽजम्भस्य । सु॒ऽद्युतः॑ । ग॒ण॒ऽश्रियः॑ ॥

सायणभाष्यम्

दीदियुषः दीदितिर्दीप्तिकर्मा संदीप्यमानस्य तपुर्जंभस्य तापयितृदंष्ट्र्स्य सुद्युतः शोभनदीप्तेर्गणश्रियःहविरादानार्थं यजमानगणं श्रयति तस्य अस्य- एतादृशस्याग्नेरजरं जरारहितं पुनःपुनर्मथ्यमानत्वान्नूतनं हविर्भिर्वर्धमानत्वादभिनवं वा शोचिस्तेजः व्युदस्थात् विशेषेण उद्गतमभूत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः