मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ८

संहिता

य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत् ।
मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥

पदपाठः

य॒ज्ञेभिः॑ । अद्भु॑तऽक्रतुम् । यम् । कृ॒पा । सू॒दय॑न्ते । इत् ।
मि॒त्रम् । न । जने॑ । सुऽधि॑तम् । ऋ॒तऽव॑नि ॥

सायणभाष्यम्

अद्भुतक्रतुं बहुविधप्रज्ञं यद्वा चित्रकर्माणं मित्रंन यजमानानां मित्रमिव स्थितं सुधितं हविर्भिःसंतर्पितं यमग्निं ऋतवनि यज्ञवति जने यजमाने कृपा स्वसामर्थ्येन यज्ञेभिर्यज्ञैः सूदयन्ते इत् सूदिः क्षरणकर्मा अध्वर्य्वादयः कामान् क्षारयन्त्येव यजमानस्य कामान्प्रापयन्तीत्यर्थः । तमग्निमुपासेवध्व- मित्युत्तरत्रसंबंधः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०